|
|
 |
 |
|
|
१६आश्रमवासिकपर्व.jpg)
॥ श्रीः ॥
16.11. अध्यायः 011
अथाश्रमवासपर्व ॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
पौरजनैर्ब्राह्मणमुखेन धृतराष्ट्रंप्रति समाश्वासनपूर्वकं कृच्छ्रेणि वनगमनाभ्यनुज्ञानम्॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Text
वैशम्पायन उवाच।
एवमुक्तास्तु ते तेन पौरजानपदा जनाः।
वृद्धेन राज्ञा कौरव्य नष्टसंज्ञा इवाभवन्॥ 16-11-1(97515)
तूष्णींभूतांस्ततस्तांस्तु वाष्पकण्ठान्महीपतिः।
धृतराष्ट्रो महीपालः पुनरेवाभ्यभाषत॥ 16-11-2(97516)
वृद्धं च हतपुत्रं च धर्मपत्न्या सहानया।
विलपन्तं बहुविधं कृपणं चैव सत्तमाः॥ 16-11-3(97517)
पित्रा स्वयमनुज्ञातं कृष्णद्वैपायनेन वै।
वनवासाय धर्मज्ञा धर्मजेन नृपेण ह॥ 16-11-4(97518)
सोहं पुनःपुनर्याचे शिरसाऽवनतोऽनघाः।
गान्धार्या सहितं तन्मां समनुज्ञातुमर्हथ॥ 16-11-5(97519)
वैशम्पायन उवाच। 16-11-6x(8042)
तच्छ्रुत्वा कुरुराजस्य वाक्यानि करुणानि ते।
रुरुदुः सर्वशो राजन्समेताः कुरुजाङ्गलाः॥ 16-11-6(97520)
उत्तरीयैः करैश्चापि संछाद्य वदनानि ते।
रुरुदुः शोकसंतप्ता मुहूर्तं पितृमातृवत्॥ 16-11-7(97521)
हृदयैः शून्यभूतैस्ते धृतराष्ट्रप्रवासजम्।
दुःखं संधारयन्तो हि नष्टसंज्ञा हवाभवन्॥ 16-11-8(97522)
ते विनीय तमायासं धृतराष्ट्रवियोगजम्।
शनैः शनैस्तदाऽन्योन्यमब्रुवन्स्वमतान्युत॥ 16-11-9(97523)
ततः सञ्चिन्त्य ते सर्वे वाक्यान्यथ समासतः।
एकस्मिन्ब्राह्मणे कार्यमावेस्योचुर्नराधिपम्॥ 16-11-10(97524)
ततः स्वाचरणो विप्रः सम्मतोऽर्थविशारदः।
सम्भाव्यो बह्वृचो राजन्वक्तुं समुपचक्रमे॥ 16-11-11(97525)
अनुमान्य महाराजं सदः समनुभाष्य च।
विप्रः प्रगल्भो मेधावी स राजानमुवाच ह॥ 16-11-12(97526)
राजन्वाक्यं जनस्यास्य मयि सर्वं समर्पितम्।
वक्ष्यामि तदहं वीर तज्जुषस्व नपाधिप॥ 16-11-13(97527)
यथा वदसि राजेन्द्र सर्वमेतत्तथा विभो।
नात्र मिथ्या वचः किञ्चित्सुहृत्त्वं नः परस्परम्॥ 16-11-14(97528)
न जात्वस्य च वंशस्य राज्ञां कश्चित्कदाचन।
राजाऽऽसीद्यः प्रजापालः प्रजानामप्रियोऽभवत्॥ 16-11-15(97529)
पितृवन्मातृवच्चैव भवन्तः पालयन्ति नः।
न च दुर्योधनः किञ्चिदयुक्तं कृतवान्नृपः॥ 16-11-16(97530)
`प्रियाणि कुर्वन्सर्वेषामनुवृत्त्यर्थमुद्यतः।'
यथा ब्रवीति धर्मात्मा मुनिः सत्यवतीसुतः।
तथा कुरु महाराज स हि नः परमो गुरुः॥ 16-11-17(97531)
त्यक्ता वयं तु भवता दुःखशोकपरायणाः।
भविष्यामश्चिरं राजन्भवद्गुणशतैर्हृताः॥ 16-11-18(97532)
यथा शन्तनुना गुप्ता राज्ञा चित्राङ्गदेन च।
भीष्मवीर्योपगूढेन पित्रा तव च पार्थिव।
भवद्बुद्धियुजा चैवि पाण्डुना पृथिवीक्षिता॥ 16-11-19(97533)
तथा दुर्योधनेनापि राज्ञा सुपरिपालिताः।
न स्वल्पमपि पुत्रस्ते व्यलीकं कृतवान्नृप। 16-11-20(97534)
पितरीव सुविश्वस्तास्तस्मिन्नपि नराधिपे।
वयसा स्म यथा सम्यग्भवतो विदितं तथा॥ 16-11-21(97535)
तथा वर्षसहस्राणि कुन्तीपुत्रेण धीमता।
पाल्यमाना धृतिमता सुखं विन्दामहे नृप॥ 16-11-22(97536)
राजर्षीणां पुराणानां भवतां पुण्यकर्मणाम्।
कुरुसंवरणादीनां भरतस्य च धीमतः॥ 16-11-23(97537)
वृत्तं समनुयात्येष धर्मात्मा भूरिदक्षिणः।
नात्र वाच्यं महाराज सुसूक्ष्ममपि विद्यते॥ 16-11-24(97538)
उषिताः स्म सुखं नित्यं भवता परिपालिताः।
सुसूक्ष्मं च व्यलीकं ते सपुत्रस्य न विद्यते॥ 16-11-25(97539)
यत्तु ज्ञातिविमर्देऽस्मिन्नात्थ दुर्योधनं प्रति।
भन्तमनुनेष्यामि तत्रापि कुरुनन्दन॥ 16-11-26(97540)
न तद्दुर्योधनकृतं न च तद्भवता कृतम्।
न कर्णसौबलाभ्यां च कुरवो यत्क्षयं गताः॥ 16-11-27(97541)
दैवं तत्तु विजानीमो यन्न शक्यं प्रबाधितुम्।
दैवं पुरुषकारेणि न शक्यमपि बाधितुम्॥ 16-11-28(97542)
अक्षौहिण्यो महाराज दशाष्टौ च समागताः।
अष्टादशाहेन हताः कुरुभिर्योधपुङ्गवैः॥ 16-11-29(97543)
भीष्मद्रोणकृपाद्यैश्च कर्णेन च महात्मना।
युयुधानेन वीरेण धृष्टद्युम्नेन चाहवे॥ 16-11-30(97544)
चतुर्भिः पाण्डुपुत्रैश्च भीमार्जुनयमैस्तथा।
न च क्षयोऽयं नृपते क्रते दैवबलादभूत्॥ 16-11-31(97545)
अवश्यमेव सङ्ग्रामे क्षत्रियेण विशेषतः।
कर्तव्यं निधनं काले मर्तव्यं क्षत्रबन्धुना॥ 16-11-32(97546)
तैरियं पुरुषव्याघ्रैर्विद्याबाहुबलान्वितैः।
पृथिवी निहता सर्वा सहया सरथद्विपा॥ 16-11-33(97547)
न स राज्ञां वधे सूनुः कारणं ते महात्मनाम्।
न भवान्न च ते भृत्या न कर्णो न च सौबलः॥ 16-11-34(97548)
यद्विशस्ताः कुरुश्रेष्ठ राजानश्च सहस्रशः।
सर्वं दैवकृतं विद्धि कोत्र किं वक्तुमर्हति॥ 16-11-35(97549)
गुरुर्मतो भवानस्य कृत्स्नस्य जगतः प्रभुः।
धर्मात्मानमतस्तुभ्यमनुजानीमहे सुतम्॥ 16-11-36(97550)
लभतां वीरलोकं स ससहायो नराधिपः।
द्विजाग्र्यैः समनुज्ञातस्त्रिदिवे मोदतां सुखम्। 16-11-37(97551)
प्राप्स्यते च भवान्पुण्यं धर्मे च सततं स्थितः।
वेद धर्मं महाबाहो लौक्यं वैदिकमेव च॥ 16-11-38(97552)
दृष्टापदानाश्चास्माभिः पाण्डवाः पुरुषर्षभाः।
समर्थास्त्रिदिवस्यापि पालने किं पुनः क्षितेः॥ 16-11-39(97553)
अनुवर्त्स्यन्ति वा धीमन्समेषु विषमेषु च।
प्रजाः कुरुकुलश्रेष्ठ पाण्डवाञ्शीलभूषणान्॥ 16-11-40(97554)
ब्रह्मदेयाग्रहारांश्च पारिबर्हांश्च पार्थिवः।
पूर्वराजातिसर्गांश्च पालयत्येव पाण्डवः॥ 16-11-41(97555)
दीर्घदर्शीं मृदुर्दान्तः सदा वैश्रवणो यथा।
अक्षुद्रसचिवश्चायं कुन्तीपुत्रो महामनाः॥ 16-11-42(97556)
अप्यमित्रे दयावांश्च शुचिश्च भरतर्षभः।
ऋजु पश्यति मेधावी पुत्रवत्पाति नः सदा॥ 16-11-43(97557)
विप्रियं च जनस्यास्य संसर्गाद्धर्मजस्य वै।
न करिष्यन्ति राजर्षे तथा भीमार्जुनादयः॥ 16-11-44(97558)
मन्दा मृदुषु कौरव्य तीक्ष्णेष्वाशीविषोपमाः।
वीर्यवन्तो महात्मानः पौराणां च हिते रताः॥ 16-11-45(97559)
न कुन्ती न च पाञ्चाली न चोलूपी न सात्वती।
अस्मिञ्जने करिष्यन्ति प्रतिकूलानि कर्हिचित्॥ 16-11-46(97560)
भवत्कृतमिमं स्नेहं युधिष्ठिरविवर्धितम्।
न पृष्ठतः करिष्यन्ति पौरा जानपदा जनाः॥ 16-11-47(97561)
अधर्मिष्ठानपि सतः कुन्तीपुत्रा महारथाः।
मानवान्पालयिष्यन्ति भूत्वा धर्मपरायणाः॥ 16-11-48(97562)
स राजन्मानसं दुःखमपनीय युधिष्ठिरात्।
कुरु कार्याणि धर्म्याणि नमस्ते पुरुषर्षभ॥ 16-11-49(97563)
वैशम्पायन उवाच। 16-11-50x(8043)
तस्य तद्वचनं धर्म्यमनुमान्य गुणोत्तरम्।
साधुसाध्विति सर्वः स जनः प्रतिगृहीतवान्॥ 16-11-50(97564)
धृतराष्ट्राश्च तद्वाक्यमभिपूज्य पुनःपुनः।
विसर्जयामास तदा प्रकृतीस्तु शनैःशनैः॥ 16-11-51(97565)
स तैः सम्पूजितो राजा शिवेनावेक्षितस्तथा।
प्राञ्जलिः पूजयामास तं जनं भरतर्षभ॥ 16-11-52(97566)
ततो विवेश भवनं गान्धार्या सहितो निजम्।
आगतायां च शर्वर्यां सुखं शेते नराधिपः॥ ॥ 16-11-53(97567)
इति श्रीमन्महाभारते आमश्रवासिकपर्वणि आश्रमवासपर्वणि एकादशोऽध्यायः॥ 11 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|